This page has not been fully proofread.

२०८
 
तावद्धृतेन जुहुया -
 
प्रपञ्चसरे
 
तेष्वथ संपात्य साधु संपातम् ।
 
पुनरपि तावज्जप्त्वा
 
मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ ५९ ॥
 
संस्थाप्य समीकृत्य च
 
बलिं हरेत्तत्र तत्र तन्मन्त्रैः ।
 
पुरराष्ट्रप्रामाणां
 
कार्या रक्षैवमेव मन्त्रविदा ॥ ६० ॥
 
यस्मिन्देशे विहिता
 
रक्षेयं तत्र वर्धते महालक्ष्मीः ।
 
धनधान्यसमृद्धिः स्या-
 
द्रिपुचोरायाश्च नैव बाधन्ते ॥ ६१ ॥
 
पद्मोत्पलकुमुदहुतै -
 
नृपपत्नीब्राह्मणान्वशीकुरुते ।
 
कहारलोणहोमै -
 
र्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ ६२ ॥