This page has not been fully proofread.

त्रयोदशः : पटलः ।
 
२०७
 
त्रिमधुरयुतैरनित्यक-
 
पत्रैर्मत्ता भवन्ति ते सद्यः ।
 
रक्षाकरस्तु करिणां
 
तज्जापितपञ्चगव्यलेपः स्यात् ॥ ५५ ॥
 
आज्यतिलराज्य नित्यक-
 
दुग्धोदकपञ्चगव्यतण्डुलकैः ।
 
सघृतैश्च प्रत्येकं
 
सहस्रहवनं गजाश्ववर्धनकृत् ॥ ५६ ॥
 
द्विजभूरुहं महान्तं
 
छित्त्वा निर्भिद्य पञ्चधा भूयः ।
 
आशाक्रमेण पञ्चा-
 
युधा विधेयाश्च साधुशिल्पविदा ॥ ५७ ॥
 
शङ्खः सनन्दकोंऽरिः
 
शार्ङ्गः कौमोदकी दिशाक्रमतः ।
 
पश्चेति पञ्चगव्ये
 
निधाय जप्याच्च पश्ञ्चसाहस्रम् ॥ ५८ ॥