2026-02-28 18:28:24 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>७२
</ignore>
<ignore>कनकधारास्तोत्रम् ।
</ignore>
<verse>दद्याद्दयानुपवनो द्रविणाम्बुधरा
-
मस्मिन्न किंचन विहंगशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनी नयनाम्बुवाहः ॥ ८ ॥
</verse>
<verse>इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टाटरायाः ॥ ९ ॥
</verse>
<verse>गीर्देवतेति गरुडध्वजसुन्दरीति
शाकंभरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥
</verse>
<verse>श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्टट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥
</verse>
</page>
<ignore>७२
<ignore>कनकधारास्तोत्रम् ।
<verse>दद्याद्दयानुपवनो द्रविणाम्बुधरा
मस्मिन्न किंचन विहंगशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनी
<verse>इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्
<verse>गीर्देवतेति गरुडध्वजसुन्दरीति
शाकंभरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥
<verse>श्रुत्यै नमोऽस्तु शुभकर्म
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्
</page>