2026-02-28 06:50:40 by ambuda-bot
This page has not been fully proofread.
६८
मोहमुद्गरः ।
त्वयि मयि चान्यत्रैको विष्णु
र्व्यर्थ कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा -
स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनस चित्तं
देयं दीनजनाय च वित्तम् ॥ २७ ॥
मोहमुद्गरः ।
त्वयि मयि चान्यत्रैको विष्णु
र्व्यर्थ कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा -
स्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनस चित्तं
देयं दीनजनाय च वित्तम् ॥ २७ ॥