2026-02-28 18:21:13 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>मोहमुद्गरः ।
</ignore>
<verse>भगवद्गीता किंचिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ २० ॥
</verse>
<verse>पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयापारे पाहि मुरारे ॥ २१ ॥
</verse>
<verse>रध्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजित चित्तो
रमते बालोन्मत्तवदेव ॥ २२ ॥
</verse>
<verse>कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥
</verse>
</page>
<ignore>मोहमुद्गरः ।
<verse>भगवद्गीता किंचिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ २० ॥
<verse>पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयापारे पाहि मुरारे ॥ २१ ॥
<verse>रध्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजित
रमते बालोन्मत्तवदेव ॥ २२ ॥
<verse>कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥
</page>