2026-02-28 06:50:39 by ambuda-bot
This page has not been fully proofread.
३६
मोहमुद्गरः
अग्रे वह्निः पृष्ठे भानू
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
स्तदपि न मुंचत्याशापाशः ॥ १६ ॥
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्ति न भजति जन्मशतेन ॥ १७ ॥
सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्याग:
कस्य सुखं न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९ ॥
मोहमुद्गरः
अग्रे वह्निः पृष्ठे भानू
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
स्तदपि न मुंचत्याशापाशः ॥ १६ ॥
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
मुक्ति न भजति जन्मशतेन ॥ १७ ॥
सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्याग:
कस्य सुखं न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ १९ ॥