This page has been fully proofread once and needs a second look.

<page>
<ignore>
मोहमुद्गरः ।
 
</ignore>
<verse>
दिनयामिन्यौ सायं प्रात:
 
तः
शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायु-
 

स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥
 
</verse>
<verse>
का ते कान्ताधनगतचिन्ता
 

वातुल किं तव नास्ति नियन्ता ।

त्रिजगति सज्जनसंगतिरेका
 

भवति भवार्णवतरणे नौका ॥ १३ ॥
 
</verse>
<verse>
जटिली मुण्डी लुश्चितकेश:
शः
काषायाम्बरबहुकृतवेषः ।

पश्यन्नपि च न पश्यति मूढो

ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥
 
</verse>
<verse>
अङ्गं गलितं पलितं मुण्डं
 

दशनविहीनं जातं तुण्डम् ।
 

वृद्धो याति गृहीत्वा दण्डं
 

तदपि न मुश्ञ्चत्याशापिण्डम् ॥ १५ ॥
 
</verse>
<ignore>
S. S. II. 5.
 
</ignore>
<ignore>
६५
 
</ignore>
</page>