2026-02-28 17:39:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६४
</ignore>
<ignore>मोहमुद्गरः ।
</ignore>
<verse>का ते कान्ता कस्ते पुत्र:
रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥
</verse>
<verse>सत्सङ्गत्वे निःसङ्गत्वं
निःसङ्गत्वे निर्मोहत्वमम् ।
निर्मोहत्वे निश्चलितत्वं
निश्चलितत्वे जीवन्मुक्ति:तिः ॥ ९ ॥
</verse>
<verse>वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥
</verse>
<verse>मा कुरु धनजनयौवनगर्ने
वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥
</verse>
</page>
<ignore>६४
<ignore>मोहमुद्गरः ।
<verse>का ते कान्ता कस्ते पुत्
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥
<verse>सत्सङ्गत्वे निःसङ्गत्वं
निःसङ्गत्वे निर्मोहत्व
निर्मोहत्वे निश्चलितत्वं
निश्चलितत्वे जीवन्मुक्
<verse>वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥
<verse>मा कुरु धनजनयौवनगर्
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥
</page>