This page has not been fully proofread.

६४
 
मोहमुद्गरः ।
 
का ते कान्ता कस्ते पुत्र:
 
संसारोऽयमतीव विचित्रः ।
 
कस्य त्वं कः कुत आयात-
 
स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥
 
सत्सङ्गत्वे निःसङ्गत्वं
 
निःसङ्गत्वे निर्मोहत्वम ।
 
निर्मोहत्वे निश्चलितत्वं
 
निश्चलितत्वे जीवन्मुक्ति: ॥ ९ ॥
 
वयसि गते कः कामविकारः
 
शुष्के नीरे कः कासारः ।
 
क्षीणे वित्ते कः परिवारो
 
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥
 
मा कुरु धनजनयौवनगर्ने
 
हरति निमेषात्कालः सर्वम् ।
 
मायामयमिदमखिलं हित्वा
 
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥