2026-02-28 17:38:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>मोहमुद्गरः ।
</ignore>
<verse>नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानप्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥
</verse>
<verse>यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्त्तीतां कोऽपि न पृच्छति गेहे ॥ ५ ॥
</verse>
<verse>यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
</verse>
<verse>बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावञ्च्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
</verse>
<ignore>६३
</ignore>
</page>
<ignore>मोहमुद्गरः ।
<verse>नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानप्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥
<verse>यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्त्
<verse>यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
<verse>बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्ताव
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
<ignore>६३
</page>