2026-02-28 06:50:39 by ambuda-bot
This page has not been fully proofread.
मोहमुद्गरः ।
नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानप्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्त्ती कोऽपि न पृच्छति गेहे ॥ ५ ॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावञ्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
६३
नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानप्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्त्ती कोऽपि न पृच्छति गेहे ॥ ५ ॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावञ्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
६३