This page has been fully proofread once and needs a second look.

<page>
<ignore>
भगवन्मानसपूजा ।
 
</ignore>
<ignore>
६१
 
</ignore>
<verse>
विजातीयै:यैः पुष्पैरतिसुरभिभिर्बिल्व तुलसी-

युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।

तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं
 

चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८
 
॥</verse>
<verse>
नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः
 

कृतं नृत्यं गीतं स्तुनिरपि रमाकान्त त इयम् ।

तव प्रीत्यै भूयादहमपि च दासस्तव विभो
 

कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
 
</verse>
<verse>
सदा सेव्यः कृष्णः सजलघननीलः करतले
 

दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
 

कदाचित्कान्तानां कुचकलशपत्रालिरचना-
 

समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥१०॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ

भगवन्मानसपूजा संपूर्णा ॥
 
</trailer>
<ignore>
*
 
</ignore>
</page>