This page has not been fully proofread.

भगवन्मानसपूजा ।
 
६१
 
विजातीयै: पुष्पैरतिसुरभिभिर्बल्व तुलसी-
युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं
 
चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ।
 
नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः
 
कृतं नृत्यं गीतं स्तुनिरपि रमाकान्त त इयम् ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
 
कृतं छिद्रं पूर्ण कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
 
सदा सेव्यः कृष्णः सजलघननीलः करतले
 
दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
 
कदाचित्कान्तानां कुचकलशपत्रालिरचना-
 
समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥१०॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
भगवन्मानसपूजा संपूर्णा ॥
 
*