This page has not been fully proofread.

६०
 
भगवन्मानसपूजा ।
 
तद्विर्णे वस्त्रे भज विजयकान्ताधिहरण
 
प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले ।
 
ललाटे पाटीरं मृगमदयुतं धारय हरे
 
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥
 
दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं
 
मुखं दीपेनेन्दुप्रभविरजसं देव कलये ।
 
इमौ पाणी वाणीपतिनुत सकर्पूररजसा
 
विशोध्याम्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥
 
सदा तृप्तानं षड्रसवदखिलव्य जनयुतं
 
सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
 
यशोदासूनो तत्परमदययाशान सखिभिः
 
प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥
 
सचूर्ण ताम्बूलं मुखशुचिकरं भक्षय हरे
 
फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
 
प्रदीपैरारार्ति जलधितनयाश्लिष्ट रचये ॥ ७ ॥