This page has been fully proofread once and needs a second look.

11 <paft: 11
 
ge>
<subtitle>॥ श्रीः ॥</subtitle>
<title>
॥ भगवन्मानसपूजा ॥
 
</title>
<verse>
हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः
 

सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।

शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
 

वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥
 
</verse>
<verse>
पयोम्भोधेद्वर्द्वीपान्मम हृदयमायाहि भगव-

न्मणिव्रात भ्राजत्कनकवरपीठं भज हरे ।

सुचिहौह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै-

गृहाणेदं दूर्वा फलजलवदर्घ्यं मुररिपो ॥ २ ॥
 
</verse>
<verse>
त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽति शिशिरं
 

भजस्वेमं पश्वाञ्चामृतफलर साप्लावमघहन् ।

सुनद्या:याः कालिन्द्या अपि कनककुम्भस्थितमिदं
 

जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥
 
</verse>
</page>