This page has not been fully proofread.

11 aft: 11
 
॥ भगवन्मानसपूजा ॥
 
हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः
 
सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
 
वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥
 
पयोम्भोधेद्वपान्मम हृदयमायाहि भगव-
न्मणिव्रात भ्राजत्कनकवरपीठं भज हरे ।
सुचिहौ ते पादौ यदुकुलज नेनेज्म सुजलै-
गृहाणेदं दूर्वा फलजलवदर्घ्य मुररिपो ॥ २ ॥
 
त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽति शिशिरं
 
भजस्वेमं पश्वामृतफलर साप्लावमघहन् ।
सुनद्या: कालिन्द्या अपि कनककुम्भस्थितमिदं
 
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥