2026-02-28 06:50:38 by ambuda-bot
This page has not been fully proofread.
५८
गोविन्दाष्टकम् ।
वृन्दावनभुवि बृन्दारकगणवृन्दाराधितवन्याया
कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् ।
बन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
नन्द्याशेषगुणाधि प्रणमत गोविन्दं परमानन्दम् ॥८॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौत समस्ताघो
गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
गोविन्दाष्टकं संपूर्णम् ॥