This page has been fully proofread once and needs a second look.

<page>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
तावत्सर्वं सत्यमिवाभाति यदेत-
 

द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न हि दृष्ट:
टः ।
दृष्टे यस्मिन्सर्वमसत्यं भवतीदं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥
 
</verse>
<verse>
रागामुक्तं लोहयुतं हेम यथाग्नौ

योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ ।

दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ४१ ॥
 
</verse>
<verse>
यं विज्ञानज्योतिषमाद्यं सुविभान्तं

हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।

क्त्याराध्ये दैहैव विशन्त्यात्मनि सन्तं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥
 
</verse>
<verse>
पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो
 

भक्त्या स्तोतौतीत्याङ्गिरमं विष्णुरिमं माम् ।

इत्यात्मानं स्वात्मनि संहृत्य सदैक-
 

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग-

वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ

हरिस्तुतिः संपूर्णा ॥
 
</trailer>
<ignore>
५५
 
</ignore>
</page>