This page has been fully proofread once and needs a second look.

<page>
<ignore>
५४
 
</ignore>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
नाहं प्राणो नैव शरीरं न मनोऽहं
 

नाहं बुद्धिर्नाहमहंकारधियौ च ।

योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥
 
</verse>
<verse>
सत्तामात्रं केवलविज्ञानमजं स-
 

त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामन्ते प्राह पिता यं विभुमाद्यं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥
 
</verse>
<verse>
मूर्तामूर्ते पूर्वमपोह्याथ समाधौ
 

दृश्यं सर्वेवं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८ ॥
 
</verse>
<verse>
ओतं प्रोतं यत्र च सर्वेवं गगनान्तं

योsस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।

ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य-
 

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥
 
</verse>
</page>