This page has not been fully proofread.

५४
 
हरिस्तुतिः ।
 
नाहं प्राणो नैव शरीरं न मनोऽहं
 
नाहं बुद्धिर्नाहमहंकारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥
 
सत्तामात्रं केवलविज्ञानमजं स-
 
त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामन्ते प्राह पिता यं विभुमाद्यं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥
 
मूर्तामूर्ते पूर्वमपोह्याथ समाधौ
 
दृश्यं सर्वे नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८ ॥
 
ओतं प्रोतं यत्र च सर्वे गगनान्तं
योsस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।
ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य-
 
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥