This page has been fully proofread once and needs a second look.

<page>
<ignore>हरिस्तुतिः ।</ignore>
<verse>विज्ञानांशो यस्य सतः शक्त्यधिरूढो
बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥</verse>
<verse>कोऽयं देहे देव इतीत्थं सुविचार्य
ज्ञाता श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य <error>ज्ञांश</error><fix>ज्ञाशं</fix> इहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥</verse>
<verse>को ह्येवान्यादात्मनि न स्यादयमेष
ह्येवानन्दः प्राणिति चा<flag>पा</flag>निति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥</verse>
<verse>प्राणो वाहं वाक्छ्रवणादीनि मनो वा
बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥</verse>
</page>