This page has been fully proofread once and needs a second look.

<page>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
विज्ञानांशो यस्य सतः शक्त्यधिरूढो
 

बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थांनथान्

नैवान्तःस्थं बुध्यति यं बोधयितारं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥
 
</verse>
<verse>
कोऽयं देहे देव इतीत्थं सुविचार्य
 

ज्ञाता श्रोता मन्तयिता चैष हि देवः ।

इत्यालोच्य <error>ज्ञांश</error><fix>ज्ञाशं</fix> इहास्मीति विदुर्
 
*
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥
 
</verse>
<verse>
को ह्येवान्यादात्मनि न स्यादयमेष
 

ह्येवानन्दः प्राणिति चाषा<flag>पा</flag>निति चेति ।
 

इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
 
'
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥
 
</verse>
<verse>
प्राणो वाहं वाक्छ्रवणादीनि मनो वा
 

बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
 

इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्
 
"
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥
 
</verse>
</page>