This page has not been fully proofread.

हरिस्तुतिः ।
 
विज्ञानांशो यस्य सतः शक्त्यधिरूढो
 
बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थांन ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥
 
कोऽयं देहे देव इतीत्थं सुविचार्य
 
ज्ञाता श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य ज्ञांश इहास्मीति विदुर्य
 
* तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥
 
को ह्येवान्यादात्मनि न स्यादयमेष
 
ह्येवानन्दः प्राणिति चाषानिति चेति ।
 
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
 
'
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥
 
प्राणो वाहं वाक्छ्रवणादीनि मनो वा
 
बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
 
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्य
 
"
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥