This page has not been fully proofread.

५.२
 
हरिस्तुतिः ।
 
युक्त्यालोड्य व्यासवचांस्यत्र हि लभ्यः...
क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।
योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ २८ ॥
 
एकीकृत्यानेकशरीरस्थमिमं ज्ञं
 
यं विज्ञायेहैव स एवाशु भवन्ति ।
यस्मिल्लीना नेह पुनर्जन्म लभन्ते
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ २९ ॥
 
द्वन्द्वैकत्वं यच्च मधुव्राह्मणवाक्यैः
11. कृत्वा शक्रोपासनमासाद्य विभूत्या ।
योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३० ॥
 
योऽयं देहे चेष्टयितान्तःकरणस्थः
 
सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
इत्यात्मैक्योपासन्या यं विदुरीशं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३१ ॥