This page has been fully proofread once and needs a second look.

<page>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
श्रद्धाभक्तिध्यानशमाद्यैर्यतमानेनै-
 

र्ज्ञा
तुं शक्यो देव इहैवाशु य ईशः ।

दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
 

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
 
</verse>
<verse>
यस्यातयैर्क्यं स्वात्मविभूतेः परमार्
 
थं
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।

तज्जातित्वादब्धितरङ्गाभमभिन्नं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
 
</verse>
<verse>
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
 

भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।

ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
 
</verse>
<verse>
क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो
 

भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
 

क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ २७ ॥
 
</verse>
<ignore>
५१
 
</ignore>
</page>