This page has not been fully proofread.

हरिस्तुतिः ।
 
श्रद्धाभक्तिध्यानशमाद्यैर्यतमाने-
 
तुं शक्यो देव इहैवाशु य ईशः ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
 
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
 
यस्यातयै स्वात्मविभूतेः परमार्थ
 
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
तज्जातित्वादधितरङ्गाभमभिन्नं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
 
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
 
भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
 
क्षेत्रज्ञत्वं प्राप्य विभुः पचमुखैर्यो
 
भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
 
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
 
तं संसारध्वान्तविनाशं हरिमीडे ॥। २७ ॥
 
५१