2026-02-28 06:50:37 by ambuda-bot
This page has not been fully proofread.
हरिस्तुतिः ।
श्रद्धाभक्तिध्यानशमाद्यैर्यतमाने-
तुं शक्यो देव इहैवाशु य ईशः ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
यस्यातयै स्वात्मविभूतेः परमार्थ
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
तज्जातित्वादधितरङ्गाभमभिन्नं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
क्षेत्रज्ञत्वं प्राप्य विभुः पचमुखैर्यो
भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥। २७ ॥
५१
श्रद्धाभक्तिध्यानशमाद्यैर्यतमाने-
तुं शक्यो देव इहैवाशु य ईशः ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
यस्यातयै स्वात्मविभूतेः परमार्थ
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
तज्जातित्वादधितरङ्गाभमभिन्नं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यव विदुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
क्षेत्रज्ञत्वं प्राप्य विभुः पचमुखैर्यो
भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥। २७ ॥
५१