This page has been fully proofread once and needs a second look.

<page>
<ignore>
५०
 
</ignore>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
कोशानेतान्पश्ञ्च रसादीनतिहाय
 

ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।

पित्रा शिष्टो वेद भृगुर्येयं यजुरन्ते
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥
 
</verse>
<verse>
येनाविष्टो यस्य च शक्त्या यदधीनः

क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।

कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ-

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥
 
</verse>
<verse>
सृष्ट्वा सर्वेवं स्वात्मतयैवेत्थमतयै
 
र्क्यं
व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
 

सच्च त्यश्च्चाभूत्परमात्मा स य एक-
 

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥
 
</verse>
<verse>
वेदान्तैश्वाचाध्यात्मिकशास्त्रैश्च पुराणैः
 

शास्त्रैश्वाचान्यैः सात्त्वततन्त्रैश्च यमीशम् ।

दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्
 
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥
 
</verse>
</page>