2026-02-28 06:50:37 by ambuda-bot
This page has not been fully proofread.
५०
हरिस्तुतिः ।
कोशानेतान्पश्च रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्ये यजुरन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥
येनाविष्टो यस्य च शक्त्या यदधीनः
क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥
सृष्ट्वा सर्वे स्वात्मतयैवेत्थमतयै
व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
सच्च त्यश्चाभूत्परमात्मा स य एक-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥
वेदान्तैश्वाध्यात्मिकशास्त्रैश्च पुराणैः
शास्त्रैश्वान्यैः सात्त्वततन्त्रैश्च यमीशम् ।
दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥
हरिस्तुतिः ।
कोशानेतान्पश्च रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्ये यजुरन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥
येनाविष्टो यस्य च शक्त्या यदधीनः
क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥
सृष्ट्वा सर्वे स्वात्मतयैवेत्थमतयै
व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
सच्च त्यश्चाभूत्परमात्मा स य एक-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥
वेदान्तैश्वाध्यात्मिकशास्त्रैश्च पुराणैः
शास्त्रैश्वान्यैः सात्त्वततन्त्रैश्च यमीशम् ।
दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥