2026-02-28 17:07:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हरिस्तुतिः ।
</ignore>
<verse>जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां
.
दृष्ट्वा स्वप्नेऽथापि सुषुमौप्तौ सुखनिद्रामम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥
</verse>
<verse>पश्यन्शुद्धोऽप्यश्नक्षर एको गुणभेदा-
न्नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥
</verse>
<verse>ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा-
त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥
</verse>
<verse>सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
*
तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥
</verse>
<ignore>S. S. II. 4.
</ignore>
<ignore>४९
</ignore>
</page>
<ignore>हरिस्तुतिः ।
<verse>जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां
.
दृष्ट्वा स्वप्नेऽथापि सुषु
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥
<verse>पश्यन्शुद्धोऽप्य
न्नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥
<verse>ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा-
त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥
<verse>सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
*
तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥
<ignore>S. S. II. 4.
<ignore>४९
</page>