This page has not been fully proofread.

हरिस्तुतिः ।
 
जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां
 
.
 
दृष्ट्वा स्वप्नेऽथापि सुषुमौ सुखनिद्राम ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥
 
पश्यन्शुद्धोऽप्यश्नर एको गुणभेदा-
 
न्नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
 
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥
 
ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
 
विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
 
एकं सन्तं यं बहुधाहुर्मतिभेदा-
 
त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥
 
सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
 
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
 
* तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥
 
S. S. II. 4.
 
४९