This page has been fully proofread once and needs a second look.

<page>
<ignore>
४८
 
</ignore>
<ignore>
हरिस्तुतिः ।
 
</ignore>
<verse>
सर्वत्रास्ते सर्वशरीरी न च सर्वः
 

सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।

सर्वत्रान्तर्यामितयेत्थं यमयन्य-
 
सर्व
 

स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥
 
</verse>
<verse>सर्वं
दृष्ट्वा स्वात्मनि युक्त्या जगदेत-

दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।

सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥
 
</verse>
<verse>
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
 
स्प

स्प्र
ष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।

साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥
 
</verse>
<verse>
पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं-
 

जिघ्रद्विबिभ्रद्देहमिमं जीवतयेत्थम् ।
 

इत्यात्मानं यं विदुरीशं विषयज्ञं
 

तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥
 
</verse>
</page>