2026-02-28 06:50:36 by ambuda-bot
This page has not been fully proofread.
४८
हरिस्तुतिः ।
सर्वत्रास्ते सर्वशरीरी न च सर्वः
सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य-
सर्व
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥
दृष्ट्वा स्वात्मनि युक्त्या जगदेत-
दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्य जनहृत्स्थं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
स्पष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥
पश्यञ्शृण्वन्नव विजानन्रसयन्सं-
जिघ्रद्विभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥
हरिस्तुतिः ।
सर्वत्रास्ते सर्वशरीरी न च सर्वः
सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य-
सर्व
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥
दृष्ट्वा स्वात्मनि युक्त्या जगदेत-
दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्य जनहृत्स्थं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
स्पष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥
पश्यञ्शृण्वन्नव विजानन्रसयन्सं-
जिघ्रद्विभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥