2026-02-28 17:04:00 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हरिस्तुतिः ।
</ignore>
<verse>मालातीतं स्वात्मविकासात्मविबोधं
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्य
यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥
</verse>
<verse>यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥
</verse>
<verse>यद्यद्वेद्यं तत्तदहं नेति विहाय
स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥
</verse>
<verse>हित्वाहित्वा दृश्यमशेषं सविकल्पं
मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥
</verse>
<ignore>४७
</ignore>
</page>
<ignore>हरिस्तुतिः ।
<verse>मालातीतं स्वात्मविकासात्मविबोधं
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्
तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥
<verse>यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥
<verse>यद्यद्वेद्यं तत्तदहं नेति विहाय
स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥
<verse>हित्वाहित्वा दृश्यमशेषं सविकल्पं
मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥
<ignore>४७
</page>