This page has not been fully proofread.

हरिस्तुतिः ।
 
मालातीतं स्वात्मविकासात्मविबोधं
 
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्य
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥
 
यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥
 
यद्यद्वेद्यं तत्तदहं नेति विहाय
स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
 
तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥
 
हित्वाहित्वा दृश्यमशेषं सविकल्पं
 
मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
 
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
 
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥
 
४७