2026-02-28 06:50:36 by ambuda-bot
This page has not been fully proofread.
४६
हरिस्तुतिः ।
यस्मादन्यन्नास्त्यपि नैवं परमार्थ
दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनो ऽपि सदा ज्ञ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥
आचार्येभ्यो लब्धसुसूक्ष्माच्युततन्त्वा
वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥
प्राणानायम्योमिति चित्तं हृदि रुध्वा
नान्यत्स्मृत्वा तत्पुनरत्रैव विलाय ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥
यं ब्रह्माख्यं देवमनन्यं परिपूर्ण
हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥
हरिस्तुतिः ।
यस्मादन्यन्नास्त्यपि नैवं परमार्थ
दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनो ऽपि सदा ज्ञ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥
आचार्येभ्यो लब्धसुसूक्ष्माच्युततन्त्वा
वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥
प्राणानायम्योमिति चित्तं हृदि रुध्वा
नान्यत्स्मृत्वा तत्पुनरत्रैव विलाय ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्य
तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥
यं ब्रह्माख्यं देवमनन्यं परिपूर्ण
हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥