This page has not been fully proofread.

कृष्णाष्टकम् ।
 
पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
 
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो
 
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
बलारातेर्ग परिहरति योऽसौ विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
 
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
 
४३
 
विना यख ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥
 
नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणो
 
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥७॥