This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ कृष्णाष्टकम् ॥
 
</title>
<verse>
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो

धियां साक्षी शुद्धो हरिरसुरहन्ताञ्ब्जनयनः ।

गदी शङ्खी चक्री विमलवनमाली स्थिररुचि:
चिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥
 
</verse>
<verse>
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
 

स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।

लये सर्वेवं स्वस्मिन्हरति कलया यस्तु स विभुः

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥२॥
 
</verse>
<verse>
असूनायम्यादौ यमनियममुख्यैः सुकरणै-
 

र्
निरुद्धधेध्येदं चित्तं हृदि विलयमानीय सकलम् ।

यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
 

शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
 
</verse>
</page>