This page has not been fully proofread.

॥ श्रीः ॥
 
॥ कृष्णाष्टकम् ॥
 
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताञ्जनयनः ।
गदी शङ्खी चक्री विमलवनमाली स्थिररुचि:
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥
 
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
 
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।
लये सर्वे स्वस्मिन्हरति कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥२॥
 
असूनायम्यादौ यमनियममुख्यैः सुकरणै-
 
निरुद्धधेदं चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ
 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥