This page has been fully proofread once and needs a second look.

USH
 
<page>
<ignore>
अच्युताष्टकम् ।
 
</ignore>
<verse>
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
 

रत्नमौलिं लसत्कुण्डलं गण्डयोः ।

हारकेयूरकं कङ्कणप्रोज्ज्वलं
 

किंकिणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥
 
</verse>
<verse>
अच्युतस्याष्टकं यः प<error>ठें</error><fix>ठे</fix>दिष्टदं
 

प्रेमतः प्रत्यहं पूरुष:षः सस्पृहम् ।
 

वृत्तत:तः सुन्दरं वेद्यविश्वंभरं
 

तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

अच्युताष्टकं संपूर्णम् ॥
 
</trailer>
<ignore>
४१
 
</ignore>
</page>