This page has not been fully proofread.

USH
 
अच्युताष्टकम् ।
 
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
 
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
 
किंकिणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥
 
अच्युतस्याष्टकं यः पठेंदिष्टदं
 
प्रेमतः प्रत्यहं पूरुष: सस्पृहम् ।
 
वृत्तत: सुन्दरं वेद्यविश्वंभरं
 
तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥
 
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
अच्युताष्टकं संपूर्णम् ॥
 
४१