2026-02-28 16:52:22 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle>॥ श्रीः ॥
</subtitle>
<title>॥ अच्युताष्टकम् ॥
</title>
<verse>अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १ ॥
</verse>
<verse>अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं संदधे ॥ २ ॥
</verse>
<verse>विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥
</verse>
</page>
<subtitle>॥ श्रीः ॥
<title>॥ अच्युताष्टकम् ॥
<verse>अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १ ॥
<verse>अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं संदधे ॥ २ ॥
<verse>विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मणीरागिणे जानकीजानये ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥
</page>