This page has been fully proofread once and needs a second look.

<page>
<ignore>
२८
 
</ignore>
<ignore>
पाण्डुरङ्गाष्टकम् ।
 
</ignore>
<verse>
अजं रुक्मिणीप्राणसंजीवनं तं
 

परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं
 

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥
 
</verse>
<verse>
स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवाम्भोनिधिं ते वितीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 
·

पाण्डुरङ्गाष्टकं संपूर्णम् ॥
 
</trailer>
</page>