2026-02-28 16:49:11 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ पाण्डुरङ्गाष्टकम् ॥
<verse>महायोगपीठे तटे भीमरथ्या
वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
समागत्य तिष्ठन्तमानन्दकन्दं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥
<verse>तटिद्वाससं नीलमेघावभासं
रमामन्दिरं सुन्दरं चित्प्रकाशम् ।
वरं त्विष्टकायां समन्यस्तपादं
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥
<verse>प्रमाणं भवाब्धेरिदं मामकानां
नितम्बः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिको
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥
</page>