This page has not been fully proofread.

विष्णुपादादिकेशान्तस्तोत्रम् ।
 
मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधान्नः
पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।
उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-
 
३५
 
बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
विष्णुपादादिकेशान्तस्तोत्रं
संपूर्णम् ॥