This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४
 
</ignore>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<verse>
भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाः

गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।

उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं

देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥
 
</verse>
<verse>
मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः

काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् ।

विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः
 

पायासुर्मीमां त एते गुरुतरकरुणा भारखिन्नाशया ये ॥ ४९॥
 
</verse>
<verse>
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः

स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।
 

नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब-

च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥
 
</verse>
<verse>
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते

धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तः प्रमोदम् ।

जुह्वज्जिह्वाकृशानोंनौ हरिचरितहविः स्तोत्रमन्त्रानुपाठै-

स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥
 
</verse>
</page>