2026-02-28 16:43:45 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
</ignore>
<verse>पीठीभूतालकान्तं कृतमकुट महादेव लिङ्गप्रतिष्ठे
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्विचिराय ।
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं
३३
पद्ट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥
</verse>
<verse>मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु ।
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
</verse>
<verse>सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्केलेशपाशप्रणाशम् ॥
</verse>
<verse>यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्यायां मूर्तिर्मुरारेर्बुद्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।
कुर्वत्पारे पयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमः पाटनं तत्किरीटम् ॥
</verse>
<ignore>S. S. II. 3
</ignore>
</page>
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
<verse>पीठीभूतालकान्तं कृतमकुट
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं
३३
प
<verse>मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
लोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
<verse>सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्
<verse>यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्
कुर्वत्पारे
शश्वन्नः शर्म दिश्यात्कलिकलुषतमः
<ignore>S. S. II. 3
</page>