This page has not been fully proofread.

विष्णुपादादिकेशान्तस्तोत्रम् ।
 
पीठीभूतालकान्तं कृतमकुट महादेव लिङ्गप्रतिष्ठे
 
लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्विराय ।
प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं
 
३३
 
पद्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥
 
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनीस्पर्धया नु ।
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा
लोकैलोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
 
सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
व्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।
 
देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः
 
केशाः केशिद्विषो नो विदधतु विपुलक्केशपाशप्रणाशम् ॥
 
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
 
स्फूर्त्या मूर्तिर्मुरारेर्बुमणिशतचितव्योमवद्दुर्निरीक्ष्या ।
कुर्वत्पारे पयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमः पाटनं तत्किरीटम् ॥
 
S. S. II. 3