This page has been fully proofread once and needs a second look.

<page>
<ignore>
३२
 
</ignore>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<verse>
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू

त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे

पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥४०॥
 
</verse>
<verse>
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं

येनेषञ्च्चालितेन स्वपदनियमिताः सासुरा देवसंघाः ।

नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते
 

कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥
 
</verse>
<verse>
लक्ष्माकारालकालिस्फुरद लिकशशाङ्कार्धसंदर्शमील-

न्
नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे । :
 

लक्ष्मीनाथस्य लक्ष्यीकृत विबुधगणापाङ्गवाबाणासनार्ध-

च्छाये नो भूरिभूतिप्रसत्रकुशलते भ्रूलते पालयेताम् ॥
 
</verse>
<verse>
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-

प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकै शानलिङ्गम् ।
 

भूयाद्भूयो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या-

दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं च ॥
 
</verse>
</page>