This page has not been fully proofread.

३२
 
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥४०॥
 
पातात्पातालपातात्पतगपतिगतेभ्रूयुगं भुनमध्यं
येनेषञ्चालितेन स्वपदनियमिताः सासुरा देवसंघाः ।
नृत्यल्लालाटर रजनिकरतनोरर्धखण्डावदाते
 
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥
 
लक्ष्माकारालकालिस्फुरद लिकशशाङ्कार्धसंदर्शमील-
नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे । :
 
लक्ष्मीनाथस्य लक्ष्यीकृत विबुधगणापाङ्गवाणासनार्ध-
च्छाये नो भूरिभूतिप्रसत्रकुशलते भ्रूलते पालयेताम् ॥
 
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकै शानलिङ्गम् ।
 
भूयाद्भूयो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं च ॥