2026-02-28 06:50:34 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादिकेशान्तस्तोत्रम् ।
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या
वक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।
लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-
दन्ताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥
३१
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां
शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
स्वास्येन्दोरास्रवन्ती वरवचनसुधाह्लादयेन्मानसं नः ॥
कर्णस्थस्वर्णकम्रोज्ज्वलमकर महाकुण्डलप्रोतदीप्य-
न्माणिक्य श्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।
प्रोद्यत्सूर्यांशु राजन्मरकतमुकुराकारचोरं मुरारे-
र्गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥
वक्लाम्भोजे लसन्तं मुहुरधरमणि पक्कबिम्बाभिरामं
दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः ।
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोसैर्मुरारैः
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥